|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.49. अध्यायः 049
अथानुगीतापर्व-2
Mahabharata - Ashvamedhika Parva - Chapter Topics
महर्षिभिर्ब्रह्मणंप्रति धर्मविषये नानाविधवादिविप्रतिपत्तिप्रदर्शनपूर्वकं तत्प्रयुक्तस्वीयसंशयनिवर्तनप्रार्थना॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
name="Azvamedhika-14-49-1x">ऋषय ऊचुः।
को वा स्विदिह धर्माणामनुष्ठेयतमो मतः।
व्याहतामिव पश्यामो धर्मस्य विविधां गतिम्॥ 14-49-1(93732)
ऊर्द्ध्वं देहाद्वदन्त्येके नैतदस्तीति चापरे।
केचित्संशयितं सर्वं निःसंशयमथापरे॥ 14-49-2(93733)
अनित्यं नित्यमित्येके नास्त्यस्तीत्यपि चापरे।
त्रिधेत्येके द्विधेत्येके व्याकीर्णमिति चापरे॥ 14-49-3(93734)
मन्यन्ते ब्राह्मणा एव ब्रह्मज्ञास्तत्त्वदर्शिनः।
एकमेके पृथक्चान्ये बहुत्वमिति चापरे॥ 14-49-4(93735)
देशकालावुभौ केचिन्नैतदस्तीति चापरे।
जटाजिनधराश्चान्ये मुण्डाः केचिदसंवृताः॥ 14-49-5(93736)
अश्नानं केचिदिच्छन्ति स्नानमप्यपरे जनाः।
मन्यन्ते ब्राह्मणा देवा ब्रह्मज्ञास्तत्त्वदर्शिनः॥ 14-49-6(93737)
आहारं केचिदिच्छन्ति केचिच्चानशने रताः।
कर्म केचित्प्रशंसन्ति प्रशान्ति चापरे जनाः॥ 14-49-7(93738)
केचिन्मोक्षं प्रशंसन्ति केचिद्भोगान्पृथग्विधान्।
धनानि केचिदिच्छन्ति निर्धनत्वमथापरे।
उपास्य साधनं त्वेके नैतदस्तीति चापरे॥ 14-49-8(93739)
अहिंसानिरताश्चान्ये केचिद्धिंसापरायणाः।
पुण्येन यशसा चान्ये नैतदस्तीति चापरे॥ 14-49-9(93740)
सद्भावनिरताश्चान्ये केचित्संशयिते स्थिताः।
दुःखादन्ये सुखादन्ये ध्यानमित्यपरे जनाः॥ 14-49-10(93741)
यज्ञ इत्यपरे विप्राः प्रदानमिति चापरे।
तपस्त्वन्ये प्रशंसन्ति स्वाध्यायमपरे जनाः॥ 14-49-11(93742)
ज्ञानं संन्यासमित्येके स्वभावं भूतचिन्तकाः।
सर्वमेके प्रशंसन्ति न सर्वमिति चापरे॥ 14-49-12(93743)
एवं व्युत्थापिते धर्मे बहुधा विप्रबोधिते।
निश्चयं नाधिगच्छामः श्रेयः किमिति सत्तम॥ 14-49-13(93744)
इदं श्रेय इदं श्रेय इत्येवं व्युस्थितो जनः।
यो हि यस्मिन्रतो धर्म स तं पूजयते सदा॥ 14-49-14(93745)
तेन नोऽविहिता प्रज्ञा मनश्च बहुलीकृतम्।
एतदाख्यातमिच्छामः श्रेयः किमिति सत्तम॥ 14-49-15(93746)
अतः परं तु यद्गुह्यं तद्भवान्वक्तुमर्हति।
सत्वक्षेत्रज्ञयोश्चापि सम्बन्धः केन हेतुना॥ 14-49-16(93747)
एवमुक्तः स तैर्विप्रैर्भगवाँल्लोकभावनः।
तेभ्यः शशंस धर्मात्मा याथातथ्येन बुद्धिमान्॥ ॥ 14-49-17(93748)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकोनपञ्चशोऽध्यायः॥ 49 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-49-1 न कर्मणेति कुर्वन्नेवेह कर्माणीत्युभयविधश्रुतिदर्शनान्मुह्यामहे इति भावः॥ 7-49-2 ऊर्ध्वं देहात् देहनाशादूर्ध्वमपि आत्मास्तीत्येके वदन्तीति सम्बन्धः। नैतदिति लोकायताः। सर्वं संशयितमिति स्याद्वादिनः सप्तभङ्गीनयज्ञाः। निःसंशयमिति प्रातिस्विकं सर्वं तैर्तिकाः॥ 7-49-3 अनित्यं सर्वं सृष्टिप्रलययुक्तमिति तार्किकादयः। नित्यं प्रवाहनित्यमिति मीमांसकाः। नास्तीति शून्यवादिनः। अस्ति परंतु क्षणिकमिति सौगताः॥ 7-49-6 अस्नानं नैष्ठिकब्रह्मचर्यम्। स्नानं गार्हस्थ्यम्॥ 7-49-8 साधनं ध्यानादिकमुपास्य कृत्वापि नैतदस्तीति पश्चात्सर्वमपवदन्ति॥ 7-49-9 पुण्येन पुण्यार्थमेव यतेतेत्यन्ये। एतत्पुण्यं नास्त्येवेत्यन्ये लोकायताः॥ 7-49-10 संशयिते कृतमस्ति नवेति संदिग्धे पथि। दुःखात् दुःखनिवृत्त्यर्थं सुखात्सुखप्राप्त्यर्थं ध्यानं कर्तव्यम्। निष्काममेवेत्यपरे॥ 7-49-11 सत्यमेके प्रशंसन्ति असत्यमिति चापरे इति थ.पाठः॥ 7-49-12 ज्ञानं संन्यासं संन्यासैकप्राप्यम्। भूतचिन्तकाः वस्तुतत्त्वविचारकाः। स्वभावं साधनपौष्कल्यम्। साधनपौष्कल्यस्वाभाव्यादेव ज्ञानमुत्पद्यते आश्रमान्तरेपि न संन्यासमात्रेणेत्याहुः॥ 7-49-15 अविहिता अशिक्षिता। आख्यातं त्वयेति शेषः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|